तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज
वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः
लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः
अतिमायो बृहन्माय उपमायश्च वीर्यवान्
पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः
सगौरवमिदं वाक्यं बभाषे कुलघातकः
भवतामेव सत्येन जितं विश्वं मया पुरा
कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे
जाग्रत्स्वेव ही युष्मासु कुलभ्रंशो ऽयमागतः
बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः
जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः
सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः
द्विशतं चाक्षौहिणीनां तत्सहायतयाहिनोत्
बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात्
उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत्
विथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः
मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः
आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः
क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात्
तेषामायुधचक्राणि चूर्णयामः शितैशरैः
दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सर्वरम्
आसेदुरग्निप्राकारसमीपं भण्डसूनवः
भ्रुकुटीकुटिलाश्चक्रुः सिंहनादंमहात्तरम्
उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा
क्षोभयामास शक्तीनां श्रवांसि च मनांसि च
विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम्
आगतान्युद्धकृत्याय बाला कौतूहलं दधे
समस्तशक्तिचक्राणां पूज्य विक्रमशालिनी
या सदा नववर्षेव सर्वविद्यामहाखनिः
महाराज्ञी पादपीठे नित्यमाहितसंनिधिः