विशङ्कटोदरं सालं प्रविवेश गतक्लमा
वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम्
एवं संवेश्य परितश्चक्रराजरथस्य च
ज्वलद्दण्डायुधोदग्रां स्तम्भिनीं नाम देवताम्
पूषण्युदितभूयिष्ठे पुनर्युद्धमुपाश्रयत्
अग्निप्राकारकद्वारान्निर्जगाम् महारवा
भूयः संज्वरमापन्नः प्रचण्डो भण्डदानवः
विषङ्गेण विशुक्रेणासममात्मसुतैरपि
चतुर्बाहुमुखान्पुत्रांश्चतुर्जलधिसन्निभान्
प्रेषयामास युद्धाय भण्डश्चण्डक्रुधा ज्वलन्
तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज
वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः
लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः
अतिमायो बृहन्माय उपमायश्च वीर्यवान्
पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः
सगौरवमिदं वाक्यं बभाषे कुलघातकः
भवतामेव सत्येन जितं विश्वं मया पुरा
कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे
जाग्रत्स्वेव ही युष्मासु कुलभ्रंशो ऽयमागतः
बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः
जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः
सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः
द्विशतं चाक्षौहिणीनां तत्सहायतयाहिनोत्
बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात्
उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत्
विथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः
मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः
आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः
क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात्
तेषामायुधचक्राणि चूर्णयामः शितैशरैः