तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते
भावनः सर्वभूतानां सर्वात्मा नीललोहितः
प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः
इज्यते भगवान् यस्मात्तस्मार्त्र्यंबक उच्यते
त्र्यंबका नामतः प्रेम्णा योनयस्ता वनस्पतेः
त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः
इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः
सैकः षट्को विजज्ञे ऽथ मध्वादिऋतुसंज्ञकः
नदीवेग इवासक्तः कालो धावति संहरन्
बहुत्वात्परिसंख्यातुं पुत्र पौत्रमनन्तकम्
कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात्
तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः
विस्तरेणानुपूर्व्या च कीर्त्य मानं निबोधत
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना
स्वायंभुवेंऽतरे पूर्वमाद्ये त्रेतायुगे तथा
प्रजा सत्त्वतपोयुक्तैस्तैरियं विनिवेशिता
कन्या सा तु महाभाग कर्दमस्य प्रजा पतेः
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सभ्र एव च
द्वीपेषु तेषु धर्मेण द्वीपान्ताश्च निबोधत
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः
पुष्करे सवनस्याथ महावीतः सुतो ऽभवत्
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः
हव्यो व्यजनयत्पुत्राञ् शाकद्वीपेश्वराञ् प्रभुः
कुसुमोत्तरमोदाकौ सप्तमं च महाद्रुगम्
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम्
मणीवस्य चतुर्थं तु मणीवकमिहोच्यते