महादेव्याश्च हृदये कः प्रसंगः प्रवर्तते
मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति
व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन्
अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम्
तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ् निवेदितैः
ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले
कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः
कुहकव्यवहारेण जयसिद्धिं तु काक्षति
शरादिकपरामर्शो न जातस्तेन जीवति
वयं सर्वा हि जीवामः साधयामः समीहितम्
मायाविनश्च दैत्येन्द्रास्तत्र मन्त्रो विधीयताम्
कूटयुद्धं न कुर्वन्ति न विशन्ति चमूमिमाम्
शिबिरं बहुविस्तारं योजनानां शतावधि
अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च
वह्निप्राकाराचक्रस्य द्वारन्दक्षिणतो भवेत्
द्वारे च बहवः कल्प्याः परिवारा उदायुधाः
अनालस्या अनिद्राश्च विधेयाः सततोद्यताः
अशक्यमेव भवति प्रौढमाक्रमणं हठात्
पश्यतोहरवत्सर्वं विलुठन्ति महद्बलम्
शुचिदन्तरुचा मुक्ता वहन्ती ललिताब्रवीत्
अयं कुशलधीमार्गोनीतिरेषा सनातनी
परचक्राक्रमः कार्यो जिगीषद्भिर्महाजनैः
ज्वालामालिनिकां नित्यामाहूयेदमुवाच ह
त्वया विधीयतां रक्षा बलस्यास्य महीयसः
त्रिंशद्योजनमुन्नद्धं ज्वालाकारत्वमाव्रज
वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम्
महेन्द्रोत्तरभूभागं चलितुं चक्र उद्यमम्
चतुर्दशीतिथिमयी तथेति प्रणनाम ताम्
कुण्डलीकृत्य जज्वालशालरूपेण सा पुनः
बभासे दण्डनाथाया मन्त्रिनाथचमूरपि