कक्लसं वह्निवासा च निजघान शरैः शतैः
पुक्लसं शिवदूती च प्राहिणोद्यमसादनम्
कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम्
ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम्
सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु
अथ यामावशेषायां यामिन्यां घटिकाद्वयम्
अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम्
हतावशिष्टैर्योधैश्च सार्धमेव पलायितः
दण्डनाथाशरेणैव कालदण्डसमत्विषा
सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः
इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः
नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः
नित्यानां रूपजालं च शस्त्रक्षतमलोकयत्
तदालोकनमात्रेण व्रणो निर्व्रणतामगात्
नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत्
दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम्
मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः
उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः
एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम्
अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः
महादेव्याश्च हृदये कः प्रसंगः प्रवर्तते
मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति
व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन्
अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम्
तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ् निवेदितैः
ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले
कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः
कुहकव्यवहारेण जयसिद्धिं तु काक्षति
शरादिकपरामर्शो न जातस्तेन जीवति
वयं सर्वा हि जीवामः साधयामः समीहितम्