अन्धकारमनुप्राप्य कूटयुद्धपरायणाः
पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः
अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः
सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे
प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः
ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया
मन्दरक्षोभितांभोदिवेल्लत्कल्लोलमण्डलः
आकृष्य प्रामकोदण्डास्तेनिरे युद्धमुद्धतम्
नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः
दीर्घजिह्वं चमूनाथं भगमाला व्यदारत्
कक्लसं वह्निवासा च निजघान शरैः शतैः
पुक्लसं शिवदूती च प्राहिणोद्यमसादनम्
कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम्
ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम्
सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु
अथ यामावशेषायां यामिन्यां घटिकाद्वयम्
अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम्
हतावशिष्टैर्योधैश्च सार्धमेव पलायितः
दण्डनाथाशरेणैव कालदण्डसमत्विषा
सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः
इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः
नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः
नित्यानां रूपजालं च शस्त्रक्षतमलोकयत्
तदालोकनमात्रेण व्रणो निर्व्रणतामगात्
नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत्
दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम्
मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः
उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः
एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम्
अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः