पूर्वानुक्रम तस्तत्र संप्राप्तं सुमहद्भयम्
एतस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः
ललितासैन्यनाशाय युद्धाय प्रजिघाय सः
नागच्छति तथा चक्रे कुटिलाक्षो महारणम्
अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत्
इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः
चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः
बकावलीनिबिडतः शैलराज इवाबभौ
मुक्त एकः शरोदेव्यास्तालवृन्तमचूर्णयत्
कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः
अवलोक्य भृशोद्विग्ना नित्या दधुरतिश्रमम्
क्रोधमुद्वीक्ष्य सम्नाज्ञ्या युद्धाय दधुरुद्यमम्
ऊचुर्वाचमकाण्डोत्थां युद्धकौतुकगद्गदाम्
दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम्
पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवम्
शमयामो वयं दर्पं क्षणमात्रं विलोकय
ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ताः सुरद्विषः
आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम्
तया संप्रेषिता ताभिः कुण्डलीकृत कार्मुका
बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती
अन्धकारमनुप्राप्य कूटयुद्धपरायणाः
पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः
अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः
सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे
प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः
ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया
मन्दरक्षोभितांभोदिवेल्लत्कल्लोलमण्डलः
आकृष्य प्रामकोदण्डास्तेनिरे युद्धमुद्धतम्
नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः
दीर्घजिह्वं चमूनाथं भगमाला व्यदारत्