एकत्वमिव संप्राप्तास्तिमिरेणातिभूयसा
कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम्
यथा तस्य निशायुद्धानुरूपो वेषसंग्रहः
न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम्
गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः
पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम्
निश्वासमपि सस्वानमकुर्वन्तः पदेपदे
भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः
आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः
अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम्
सहस्रादित्यसंकाशां पश्चिमाभिमुखीं स्थिताम्
नर्मालापविनोदेन सेव्यमानां रथोत्तमे
पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम्
पृष्ठवंशे रथेन्द्रस्य घट्टयामास सैनिकैः
महाकलकलं चक्रुरणिमाद्याः परःशतम्
कठोरवज्रनिर्धातनिष्ठुरैः शक्तिमण्डलैः
आकस्मिकरणोत्साहविपर्याविष्टविग्रहम्
विपाटैः पाटयामासुरदृश्यैरन्धकारिणः
अदृश्यमानशस्त्राणामदृश्यनिजवर्मणाम्
इतस्ततो बहु क्लिष्टं छन्नवर्मितमर्मवत्
पूर्वानुक्रम तस्तत्र संप्राप्तं सुमहद्भयम्
एतस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः
ललितासैन्यनाशाय युद्धाय प्रजिघाय सः
नागच्छति तथा चक्रे कुटिलाक्षो महारणम्
अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत्
इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः
चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः
बकावलीनिबिडतः शैलराज इवाबभौ
मुक्त एकः शरोदेव्यास्तालवृन्तमचूर्णयत्
कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः