समानकालकरणक्रियाः संपादयन्नपि
वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः
योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः
अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः
पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः
ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः
आत्मावेशेन भूतानामङ्गप्रत्यङ्गसंभवः
सूर्य्यश्च चन्द्रमाश्चाग्निर्वायू रुद्रस्तथैव च
रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्
तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते
भावनः सर्वभूतानां सर्वात्मा नीललोहितः
प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः
इज्यते भगवान् यस्मात्तस्मार्त्र्यंबक उच्यते
त्र्यंबका नामतः प्रेम्णा योनयस्ता वनस्पतेः
त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः
इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः
सैकः षट्को विजज्ञे ऽथ मध्वादिऋतुसंज्ञकः
नदीवेग इवासक्तः कालो धावति संहरन्
बहुत्वात्परिसंख्यातुं पुत्र पौत्रमनन्तकम्
कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात्
तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः
विस्तरेणानुपूर्व्या च कीर्त्य मानं निबोधत
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना
स्वायंभुवेंऽतरे पूर्वमाद्ये त्रेतायुगे तथा
प्रजा सत्त्वतपोयुक्तैस्तैरियं विनिवेशिता
कन्या सा तु महाभाग कर्दमस्य प्रजा पतेः
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सभ्र एव च