पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः
भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा
आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः
थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः
चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः
आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः
तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर
निषङ्ग त्वं हि तभसे जयसिद्धिमनुत्तमाम्
विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः
युवराजानुजे दैत्ये सूर्यो ऽस्तगिरिमाययौ
अन्धकारः समभवत्तस्य बाह्यचिकीर्षया
नीलकण्ठनिभच्छायं निबिडं पप्रथे तमः
उज्जिहानमिव क्षोणीविवरेभ्यः सहस्रशः
क्वचिद्दीपप्रभाजाले कृतकातरचेष्टितम्
आबद्धमैत्रकमिव स्फुरच्छाद्वलमण्डले
गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु
त्रियामावामनयना नीलकञ्चुकरोचिषा
असुराणां प्रदुष्टानां रात्रिरेव बलावहा
अथ प्रचलितं सैन्यं विषङ्गेण महौजसा
दमनाद्याश्च सेनान्यः श्मामकङ्कटधारिणः
एकत्वमिव संप्राप्तास्तिमिरेणातिभूयसा
कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम्
यथा तस्य निशायुद्धानुरूपो वेषसंग्रहः
न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम्
गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः
पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम्
निश्वासमपि सस्वानमकुर्वन्तः पदेपदे
भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः
आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः
अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम्