उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः
तादृशानामिहास्माकमागतो ऽयं विपर्ययः
दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता
अकाण्ड एव विधिना कृतो ऽयं निष्ठुरो विधिः
अधिसंग्रामभूचक्रे सेनान्यो विनिपातिताः
यदि संप्रहरत्यस्मान्धिग्बलं नो भुजार्जितम्
वनिता किमु मत्सैन्यं मर्द यिष्यति दुर्मदा
मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला
अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम्
पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत्
दश पञ्च च सेनान्यः सह यान्तु युयुत्सया
अल्पैस्तु रक्षिता वै स्यात्तेनैवासौ सुनिग्रहा
विषङ्ग गुप्तरूपेण पार्ष्णिग्राहं समाचर
सज्जाश्च लन्तु सेनान्यो दिक्पालविजयोद्धताः
त्वं गुप्तवेषस्तां दुष्टां सन्निपत्य दृढं जहि
तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति
सर्वेषामेव पश्चाद्यो रथश्चलति भासुरः
महामुक्तातपत्रेण सर्वोद्ध्व परिशोभितः
उत्तङ्गकेतुसंघातलिखितांबुदमण्डलः
निबृतं संनिपत्य त्वं चिह्नेनानेन लक्षिताम्
पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः
भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा
आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः
थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः
चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः
आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः
तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर
निषङ्ग त्वं हि तभसे जयसिद्धिमनुत्तमाम्
विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः
युवराजानुजे दैत्ये सूर्यो ऽस्तगिरिमाययौ