अस्मादृशामजय्येषु यदेषु व्यसनं कृतम्
निहतांल्ललिता श्रुत्वा सन्तोषं परमाप्स्यति
मन्त्रिण्यपि महाभागायास्यत्येव परां मुदम्
एषां सैन्यं तु निखिलं नाशयाम उदायुधाः
तमोलिप्तेन यानेन बलाहकबलं ययौ
पुनरेव च सावित्रं वरं सस्मरुरञ्जसा
तिरस्कृतं तु नेत्रस्थं तिरस्करणितेजसा
आकृष्य केशेष्वसिना चकर्तान्तर्धिदेवता
सूचीमुखस्याभिमुखं तिरस्करणिका व्रजत्
अन्येषामपि पञ्चानां पञ्चत्वमकरोच्छनैः
हारदाम गले कृत्वा ननादान्तर्धिदेवता
हत्वा तद्रक्तसलिलैर्बह्वीः प्रावाहयन्नदीः
बलाहकादिसेनान्यां दृष्टिरोधनवैभवात्
शरणं जग्मुरत्यार्त्ताः क्रन्दन्तं शून्यकेश्वरम्
प्रसादमपरं चक्षुस्तस्या आदायपिप्रियुः
तिरस्करणिकां देवीमश्लाघन्त पदेपदे
न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः
भण्डः प्रचण्डशैण्डीर्यः काङ्क्षमाणो रणे जयम्
भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत्
ललिताविजये मन्त्रं चकार क्वथिताश्यः
उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः
तादृशानामिहास्माकमागतो ऽयं विपर्ययः
दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता
अकाण्ड एव विधिना कृतो ऽयं निष्ठुरो विधिः
अधिसंग्रामभूचक्रे सेनान्यो विनिपातिताः
यदि संप्रहरत्यस्मान्धिग्बलं नो भुजार्जितम्
वनिता किमु मत्सैन्यं मर्द यिष्यति दुर्मदा
मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला
अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम्
पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत्