शक्तीनां सैनिकं तत्र व्याकुलीचक्रुरुद्धताः
तेन दत्तो वरस्तेषां तपस्तुष्टेन भास्वता
परितुष्टो ऽस्मि भद्रं वो भवन्तो वृणतां वरम्
प्रार्थयामासुरत्यर्थं दुर्दान्तं वरमीदृशम्
भवता घोरतेजोभिर्दहता प्रतिरोधिनः
तदाक्षिविषयः सर्वो निश्चेष्टो भवतात्प्रभो
स्तब्धशस्त्रा भविष्यन्ति प्रतिरोधकसैनिकाः
निश्चेष्टा रिपवो ऽस्माभिर्हन्तव्याः सुकरत्वतः
वरदानेन ते तत्र युद्धे चेरुर्मधोद्धताः
शक्तयः स्तब्धशस्त्रौघा विफलोत्सा हतां गताः
विष्टंभितास्त्रशस्त्राणां शक्तीनां नोद्यमो ऽभवत्
अभिभूताः सनिश्वासं शक्तयो जोषमासत
व्यमर्दयञ्छक्तिसैन्यं दैत्याः स्वस्वामिदेशिताः
अक्षुभ्यन्त शरैस्तेषां वज्रकङ्कटभोदिभिः
सुपल्लवा रणे रेजुः कङ्कोललतिका इव
चुक्रुशुः शक्तयः सर्वास्तैः स्तंभितनिजायुधाः
तिरस्करणिका देवी समुत्तस्थौ रणाजिरे
महामाया समारुह्य शक्तीनामभयं व्यधात्
श्यामच्छाये तमोलिप्ते श्यामयुक्ततुरङ्गमे
सिंहनादं विनद्येषूनवर्षत्सर्पसन्निभान्
मोहनास्त्रविनिष्ठ्यूतान्बाणान्दैत्या न सेहिरे
प्रकोपं परमं प्राप्ता बलाहकमुखाः खलाः
अन्धाभिधं महास्त्रं सा मुमोच द्विषतां गणे
अन्धास्त्रेण निजं नेत्रं दधिरे च्छादितं यथा
उद्गतेनान्धबाणेन चक्षुस्तेषां व्यधीयत
तद्वीक्षणस्य विरहाच्छस्त्रस्तम्भः क्षयं गतः
चक्रुः समरसन्नाहं दैत्यानां प्रजिघांसया
सदुपायप्रसङ्गेन भृशं तुष्टा रणं व्यधुः
स्थाने कृततिरस्कारा द्विपामेषां दुरात्मनाम्
त्वया बद्धदृशानेन दैत्यचक्रेण भूयते