लूनतच्छक्तिनैकेन बाणेन व्यलुनीत च
उरःस्थले स्वकरिणा वप्राघातमशिक्षयत्
खड्गेन सहसा हत्वा गजस्य स्वप्रियं व्यधात्
धनुर्दण्डं द्विधा कृत्वा स्वभ्रुवोः प्रतिमां तनेत्
कृपाणपद्मा रोमाल्यां स्वकीयायां मुदं व्यधात्
रथ्यक्रनितंबस्य स्वस्य तेनातनोन्मुदम्
खड्गेन छिन्दती स्वस्य प्रियमुव्यास्ततान ह
प्रविवेश च दैत्यानां सेना शक्तिबलान्तरम्
संकुलाकारतां प्राप्तो युद्धकाले ऽभवत्तदा
दैत्यानां करिणो मत्ता महाक्रोडा इवाभवन्
भीषणानां भीषणे च शस्त्रव्यापारदुर्गमे
कालदण्डोपमं जङ्घाकाण्डे चण्डपराक्रमम्
धूमवद्धूसराकारं पक्षक्षेपभयङ्करम्
अङ्गारकुण्डवच्चञ्चुं विदार्याभक्षयच्चमूम्
बलाहकमुवाहोच्चैराकृष्टधनुषं रणे
सपक्षकूटशैलस्थो बलाहक इवाभवत्
काकवाहनमारुह्य कठिनं समरं व्यधात्
कालदण्डप्रमाणेन जङ्घाकाण्डेन भीषणः
क्रोशमात्रायतौ पक्षावुभावपि समुद्वहन्
मर्दयञ्चञ्चुघातेन शक्तीनां मण्डलं महत्
कङ्कमारुह्य समरे चकाशे गिरिसन्निभम्
भेरुण्डपतनारूढः प्रचण्डयुद्धमातनोत्
उवाह समरे चण्डः कुक्कुटो ऽतिभयङ्करः
पश्यन्पुरः शक्तिसैन्यं चचाल चरणायुधः
वज्रनिष्ठुरघोषश्च प्राचलत्प्रेतवाहनः
प्रेतो भूतसमाविष्टस्तमुवाह रणाजिरे
प्रोतो वाहनतां प्राप्तःकरालाक्षमथावहत्
सर्दयामास शक्तीनां सैन्यं वेतालवाहनः
श्मशानभूमौ वेतालो मन्त्रेणानेन साधितः
बहुधायुध्यत तदा शक्तिभिः सह दानवः