भवद्राज्ञे रणोदन्तमशेषं च निबोधत
मुदितास्ते पुनर्भीत्या शून्यकायां पलायिताः
तदुदन्तं ततः श्रुत्वा भण्डश्चण्डो रुषाभवत्
कुजलाशमिति प्रोचे युयुत्साव्याकुलाशयः
करङ्काद्यश्चमूनाथाः कन्दलद्भुजविक्रमाः
पापीयस्या तया गूढमायया विनिपातिताः
तानुदग्रभुजासत्त्वान्प्राहिणु प्रधनं प्रति
ते मर्दयित्वा ललितासैन्यं मायापरायणाः
कीकसगर्भसंजातास्ते प्रचण्डपराक्रमाः
तेषामवश्यं विजयो भविष्यति रणाङ्गणे
बलाहकमुखान्सप्त सेनानाथान्मदोत्कटान्
अन्यः फालमुखश्चैव विकर्णो विकटाननः
भण्डासुरं नमस्कृत्य युद्धकौतूहलोल्वणाः
अन्योन्यसुसहायाश्च निर्जगमुर्नगरान्तरात्
उल्लिखन्ति केतुजालैरंबरे घनमण्डलम्
पिबन्ति धूलिकाजालैरशेषानपि सागरान्
नभोगुणमयं विश्वमादधानाः पदेपदे
प्रवेष्टुमिव विश्वस्मिन्कैकसेयाः प्रतस्थिरे
उद्दीप्तशस्त्रभरणाश्चेलुर्द्दीप्तोर्ध्वकेशिनः
भण्डासुरेण महता जगद्विजयकारिणा
प्रोषिता ललितासैन्यं जेतुकामेन दुर्धिया
शक्तिसेनामभिमुखं सक्रोधमभिदुद्रुवुः
देव्यास्तु सैनिकं यत्र तत्र ते जगमुरुद्धताः
अभ्यमित्रीणमभवद्बद्धभ्रुकुटिनिष्ठुरम्
मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्तथापराः
पिबन्त्य इव दैत्याब्धिं सान्निपेतुः सहस्रशः
मायापरिग्रहैर्दूरं मोहयन्त्यो जडाशयान्
इति शक्तीर्भर्त्सयन्तो दानवाश्चक्रुराहवम्
तद्गलोद्गलितो रक्तपूर ऊर्ध्वमुखो ऽभवत्
तैरेव प्रेतनाथस्य च्छत्रच्छविरुदञ्चिता