क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः
सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः
एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन्
लघुहस्ततया युद्धे चक्रे वै शस्त्रवर्षिणी
वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु
उदग्रदंशनकुलैर्नकुलैराकुलीकृताः
देशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः
पृष्ठतो प्यदशन्केचिदा गत्य व्याकृतक्रियाः
नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः
भोगिभोगानि वाकृष्य व्यदशन्रसनातलम्
सूक्ष्मरूपा विशन्तिस्म नानारन्ध्राणि बभ्रवः
निजसैन्यानि दीनानि करङ्कः कोपमास्थितः
अन्ये ऽपि च चमूनाथा लघुहस्ता महाबलाः
बभ्रूणां दन्तकोटीषु कठोरघट्टनं व्यधुः
पञ्चापि ते चमूनाथविसृष्टैरेकहेलया
विशीर्णगात्रा नकुला नकुलीं पर्यवारयन्
नकुलानां परावृत्त्या महान्तं रोषमाश्रिता
वह्निज्वालापरीताग्रं संदधे शार्ङ्गधन्वनि
वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा
वज्राकारैर्नशैस्तूर्ण दारयन्तो महीतलम्
वज्रसंपातसदृशा नासाचीत्कार कारिणः
पराक्रमं बहुविधं तेनिरे ते निरेनसः
विनष्टाः प्रत्यवयवं विनेशुर्दानवाधमाः
एवं वज्रमयैर्बभुमण्डलैः शण्डिते बले
संग्राममधिकं तेनुः समाकृष्टशरासनाः
पट्टिशेन करङ्कस्य चिच्छेद कठिनं शिरः
उत्पत्योत्पत्य तार्क्ष्येण व्यलुनादसिना शिरः
तादृशं लाघवं दृष्ट्वा नकुल्या श्यामलांबिका
निजाङ्गदेवतत्त्वं च तस्यै श्यामांबिका ददौ
हतशिष्टा भीतभीता नकुलीशरणं गताः