अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम्
वज्रदन्ताभिधानो ऽन्यश्चमूनामधिपो बली
तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे
सर्पिणी च दुराचारा बहुमायापरिग्रहा
तथा विकलितं सैन्यमवलोक्य रुषाकुला
प्रतप्तकनकप्रख्या ललितातालुसम्भवा
सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम्
गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः
क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम्
द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः
व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः
उत्फुल्ला नकुला व्यात्तवदना व्यदशन्नहीन्
तीक्ष्णदन्तनिपातेन खण्डयामास विग्रहम्
लिहन्तो नकुला जिह्वापल्लवैः पुप्लुवुर्मृधे
मुहुः कुण्डलितैर्भोगैः पन्नगानां व्यचेष्टत
फणाभरसमुत्कीर्णा मणयो व्यरुचन्रणे
फणयस्तन्महाद्रोहवह्विज्वाला इवाबभुः
मायामये सर्पजाले सर्पिणी कोपमादधे
गारुडास्त्रमतिक्रूरं समाधत्त शिलीमुखे
प्रविश्य सर्पिणीदेहं सर्पमायां व्यशोषयत्
क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः
सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः
एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन्
लघुहस्ततया युद्धे चक्रे वै शस्त्रवर्षिणी
वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु
उदग्रदंशनकुलैर्नकुलैराकुलीकृताः
देशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः
पृष्ठतो प्यदशन्केचिदा गत्य व्याकृतक्रियाः
नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः
भोगिभोगानि वाकृष्य व्यदशन्रसनातलम्