सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते
संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः
पञ्चधा प्रविभक्तां तु कालावस्थां निबोधत
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः
पञ्चमो वत्सरस्तेषां कालःस युगसज्ञितः
क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
शुक्लकृष्णगतिश्चापि अपां सारमयः खगः
यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः
अहङ्कारादुदग्रुद्रः संभूतो ब्रह्मणास्तु यः
सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत
ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः
प्रोक्तः संवत्सरश्चेति सूर्य चोनिर्मनीषिभिः
ग्रहनक्षत्रशीतोष्णवर्षायुः कर्मणां तथा
वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः
आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः
ताराभिमानी विज्ञेयो द्वितीयः परिवत्सरः
आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः
तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि
तस्मात्स पितृमान्सोमः स्मृत इङ्वत्सरात्मकः
कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः
समानकालकरणक्रियाः संपादयन्नपि
वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः
योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः
अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः
पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः
ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः
आत्मावेशेन भूतानामङ्गप्रत्यङ्गसंभवः
सूर्य्यश्च चन्द्रमाश्चाग्निर्वायू रुद्रस्तथैव च
रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्