शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि
सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः
नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः
दारदं वत्सनाभं च कालकूटमथापरम्
प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च
विकिरन्तः शक्तिसैन्ये विसम्रुः सर्पिणीतनोः
सर्पिण्या नयनद्वन्द्वा दुत्थिताः क्रोधदीपिताः
सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः
आस्यादा नीलवपुषः सर्पिण्याः फणिनो ऽभवन्
नासिकाविवरात्तस्या उद्गता उग्ररोचिषः
नाभिकुण्डाच्च बहवो रक्तवर्णा भयानकाः
विदशन्तः शक्तिसेनां दहन्तो विषवह्निभिः
अत्यन्तमाकुलां चक्रुर्ललितेशीचमूममी
खण्ड्यमाना अपि मुहुः शक्तीनां शस्त्रकोटिभिः
नश्यन्ति बहवः सर्पा जायन्ते चापरे पुनः
मूलभूता यतो दुष्टा सर्पिणी न विनश्यति
ततश्चशक्तिसैन्यानां शरीराणि विषानलैः
किङ्कर्तव्यविमूढेषु शक्तिचक्रेषु भोगिभिः
करीन्द्री गर्दभशतैर्युक्तं स्यन्दनमास्थितः
वज्रदन्ताभिधश्चान्यो भण्डदैत्यचमूपतिः
अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम्
वज्रदन्ताभिधानो ऽन्यश्चमूनामधिपो बली
तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे
सर्पिणी च दुराचारा बहुमायापरिग्रहा
तथा विकलितं सैन्यमवलोक्य रुषाकुला
प्रतप्तकनकप्रख्या ललितातालुसम्भवा
सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम्
गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः
क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम्
द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः