अग्नौ प्रविष्णव इव क्रोधान्धा निर्ययुः पुरात्
आकर्ण्य दिग्गजास्तूर्णं शीर्णकर्णा जुघूर्णिरे
उत्तरङ्गतुरङ्गादि बभौ मत्तमतङ्गजम्
बृंहमाणगजं गर्जद्रथयक्रं चचाल तत्
बभूवे तुहिनासारच्छन्नेनेव विवस्वता
क्वचिच्छब्दमयं चैव निःसाणकठिनस्वनैः
इयत्तयातः सेनायाः संख्यापि परिभाविता
प्रचेलुर्धूलिकाजाले मत्स्या इव महोदधौ
वित्रेसुरमराः सर्वे शक्तीनां भङ्गशङ्कया
सर्पिणीं नाम समरे मायां चक्रुर्महीयसीम्
धूम्रवर्णा च धूम्रोष्ठी धूम्रवर्मपयोधरा
पुरश्चचाल शक्तीनान्त्रासयन्ती मनो रणे
सर्पाणामुद्भवस्थानं मायामयशरीरिणाम्
वेल्लितं बहुधा चक्रे घोरारावविराविणी
करङ्काद्या दुरात्मानः पञ्चपञ्चत्त्वकामुकाः
अन्योन्यवीरभाषाभिः प्रोत्साहितघनक्रुधाम्
शक्तयो दानवश्चैव प्रजहुः शस्त्रपाणयः
प्रवृत्तविशिखस्रोतःप्रच्छन्नहरिदन्तरे
मांसकर्दमनिर्मग्ननिष्पन्दरथमण्डले
अतिनिष्ठुरविध्वंसि सिंहनादभयङ्करे
शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि
सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः
नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः
दारदं वत्सनाभं च कालकूटमथापरम्
प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च
विकिरन्तः शक्तिसैन्ये विसम्रुः सर्पिणीतनोः
सर्पिण्या नयनद्वन्द्वा दुत्थिताः क्रोधदीपिताः
सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः
आस्यादा नीलवपुषः सर्पिण्याः फणिनो ऽभवन्
नासिकाविवरात्तस्या उद्गता उग्ररोचिषः