अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः
अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरम्
याचितासि सखित्वेन नात्र संशयमाचर
निवर्तयामास चमूङ्कुरुण्डाभिमुखोत्थिताम्
तरङ्गा इव सैन्याब्धेस्तुरङ्गा वातरंहसः
पेतुरेकप्रवाहेण कुरण्डस्य चमूमुखे
घतिभेदेषु चारेषु पञ्चधा खुरपातने
चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे
प्रोत्साहिताः कुरण्डेन समयुध्यन्त दुर्मदाः
अभ्यद्रवद्दुराचारमश्वारूढाः कुरण्डकम्
संध्यानुरक्तशीतांशुमण्डलीसुंदरानना
अवाकिरच्छरासारैः कुरण्डं तुरगानना
दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः
विशिखैः शार्ङ्गनिष्ठ्यूतैरश्वारूढा मवाकिरत्
अश्वारूढातुरङ्गो ऽपि मर्दयामास दानवान्
अमूर्च्छयन्ननेकानि तस्यानीतानि वैरिणः
निजं पाशायुधं दिव्यं मुमोच ज्वलिताकृति
समस्तमपि तत्सैन्यं बद्ध्वाबद्ध्वा व्यमूर्छयन्
सरेणैकेन चिच्छेद तस्या मणिधनुर्गुणम्
अङ्कुशं पातयामास तस्य वक्षसि दुर्मतेः
कुरण्डो न्यपतद्भूमौ वज्ररुग्ण इव द्रुमः
तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गताः
हतावशिष्टास्ते दैत्याः प्रपलायन्त वै द्रुतम्
श्रुत्वा शून्यकनाथो ऽपि निशश्वास भुजङ्गवत्
कुटिलाक्षमिदं प्रोचे पुनरेव युयुत्सया
यच्च नो शङ्कितं चित्ते तदेतत्कष्टमागतम्
दुष्टदास्याः प्रभावो ऽयं मायाविन्या महत्तरः
शतमक्षौहिणीनां च प्रस्थापय रणाङ्गणे
सर्वथैव विजेष्यन्ते दुर्विदग्धविलासिनीम्
कुटिलाक्षः करङ्कादीनाजुहाव चमूपतीन्