शराः सम्पत्करीचापच्युताः समदहन्नरीन्
अभूदन्योन्यसंघट्टाद्विस्फुलिङ्गशिलीमुखैः
अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम्
विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम्
पराक्रमं बहुविधं दर्शयामास संगरे
उदग्रदन्तमुसलघातैरन्यांश्च दानवान्
गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान्
चतुरं चरितं चक्रे संपद्देवीमतङ्गजः
संपत्करीमुकुटगं मणिमेकमपाहरत्
विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ
तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः
पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन्
तद्वृत्तान्तमथाकर्ण्य संक्रुद्धो दानवेश्वरः
कुटिलाक्षं निकटगं बभाषे पृतनापतिम्
निपातितवती युद्धे कष्ट एव विधेः क्रमः
अभूत्प्रतिहतं सो ऽपि दुर्मदो ऽबलया हतः
सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम्
कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः
उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान्
कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय
निर्जगाम पुरात्तूर्णं कुरण्डश्चण्डविक्रमः
दुर्मदस्याग्रजश्चण्डः कुरण्डः समरं ययौ
शोकरोषग्रहग्रस्तो जवनाश्वगतो ययौ
ववर्ष शरधारभिः संपत्कर्या महाचमूम्
वृथा वहसि विक्रान्तिलवलेशं महामदम्
अन्तकस्य पुरीमत्र प्रापयिष्यामि पश्य माम्
अपूर्वमङ्गनारक्तं पिबन्तु रणपूतनाः
अधुना भोक्ष्यसे दुष्टे पश्य मे भुजयोर्बलम्
सैन्यं प्रोत्साहयामास शक्तिसेनाविमर्दने
विमर्दयितुमुद्युक्ता स्वसैन्यं प्रोदसीसहत्