शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन्
विनेशुर्दानवास्तत्र संपद्देवीबलाहताः
उष्ट्रमारुह्य सहसा दुर्मदो ऽभ्यद्रवच्चमुम्
अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह
दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया
संपत्करीचमूचक्रं वनं वार्भिरिवांबुदः
स्तंभितेवाभवत्सेना संपत्कर्याः क्षणं रणे
रणकोलाहलगजमारूढायुध्यतामुना
तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे
ददृशे घनुषश्चक्रं केवलं शरधारणे
शराः सम्पत्करीचापच्युताः समदहन्नरीन्
अभूदन्योन्यसंघट्टाद्विस्फुलिङ्गशिलीमुखैः
अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम्
विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम्
पराक्रमं बहुविधं दर्शयामास संगरे
उदग्रदन्तमुसलघातैरन्यांश्च दानवान्
गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान्
चतुरं चरितं चक्रे संपद्देवीमतङ्गजः
संपत्करीमुकुटगं मणिमेकमपाहरत्
विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ
तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः
पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन्
तद्वृत्तान्तमथाकर्ण्य संक्रुद्धो दानवेश्वरः
कुटिलाक्षं निकटगं बभाषे पृतनापतिम्
निपातितवती युद्धे कष्ट एव विधेः क्रमः
अभूत्प्रतिहतं सो ऽपि दुर्मदो ऽबलया हतः
सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम्
कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः
उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान्
कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय