अश्वनिःश्वासविक्षिप्ता धूलयः रवं प्रपेदिरे
संपत्सरस्वती क्रोधादभिदुद्राव संगरे
अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानत्रीं चमुम्
धूलीषु धूयमानासु ताड्यमानासु भेरिषु
शक्तिभिः पात्यमानानां दानवानां सहस्रशः
विस्रस्ततत्तच्छिह्नानि समं छत्रकदम्बकैः
आलंबि तुलना संध्यारक्ताभ्रहिमरोचिषा
दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन्
दानवानां रणतले निपेतुर्मुण्डराशयः
मुण्डैरखण्डमभवत्संग्रामधरणीतलम्
शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन्
विनेशुर्दानवास्तत्र संपद्देवीबलाहताः
उष्ट्रमारुह्य सहसा दुर्मदो ऽभ्यद्रवच्चमुम्
अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह
दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया
संपत्करीचमूचक्रं वनं वार्भिरिवांबुदः
स्तंभितेवाभवत्सेना संपत्कर्याः क्षणं रणे
रणकोलाहलगजमारूढायुध्यतामुना
तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे
ददृशे घनुषश्चक्रं केवलं शरधारणे
शराः सम्पत्करीचापच्युताः समदहन्नरीन्
अभूदन्योन्यसंघट्टाद्विस्फुलिङ्गशिलीमुखैः
अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम्
विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम्
पराक्रमं बहुविधं दर्शयामास संगरे
उदग्रदन्तमुसलघातैरन्यांश्च दानवान्
गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान्
चतुरं चरितं चक्रे संपद्देवीमतङ्गजः
संपत्करीमुकुटगं मणिमेकमपाहरत्
विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ