आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम्
मण्डलाकारतो वस्तुन्दशाक्षौहिणिमादिशत्
शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिने ऽवदत्
दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति
तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम्
स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः
स ध्वनन्ध्वजिनीयुक्तो ललितासैन्य मावृणोत्
दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः
देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः
समवर्तत संग्रामो धूलिग्रामतताम्बरः
अश्वनिःश्वासविक्षिप्ता धूलयः रवं प्रपेदिरे
संपत्सरस्वती क्रोधादभिदुद्राव संगरे
अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानत्रीं चमुम्
धूलीषु धूयमानासु ताड्यमानासु भेरिषु
शक्तिभिः पात्यमानानां दानवानां सहस्रशः
विस्रस्ततत्तच्छिह्नानि समं छत्रकदम्बकैः
आलंबि तुलना संध्यारक्ताभ्रहिमरोचिषा
दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन्
दानवानां रणतले निपेतुर्मुण्डराशयः
मुण्डैरखण्डमभवत्संग्रामधरणीतलम्
शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन्
विनेशुर्दानवास्तत्र संपद्देवीबलाहताः
उष्ट्रमारुह्य सहसा दुर्मदो ऽभ्यद्रवच्चमुम्
अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह
दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया
संपत्करीचमूचक्रं वनं वार्भिरिवांबुदः
स्तंभितेवाभवत्सेना संपत्कर्याः क्षणं रणे
रणकोलाहलगजमारूढायुध्यतामुना
तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे
ददृशे घनुषश्चक्रं केवलं शरधारणे