समनह्यन्त संक्रुद्धाः प्रति तां परमेश्वरीम्
चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः
अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम्
आरूढतुरगो वीथ्यां चारिभेदं चकार ह
उत्पात वातसंपातप्रेरितानिव पर्वतान्
द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि
अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः
दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः
कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः
एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः
अश्वारोहा गजारोहा गर्दभारोहिणः परे
काकादिरोहिणो गृध्रारोहाः कङ्कादिरोहिणः
शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे
एवं नानाविधैर्वाहवाहिनो ललितां प्रति
दशाक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति
भटैर्युक्तः स सेनानी ललिताभिमुखे ययौ
अट्टहासान्वितन्वानो दुर्मदस्तन्मुखो ययौ
रक्षणार्थं दशाक्षौ हिण्युपेतं तालजङ्घकम्
नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयत्
तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत्
आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम्
मण्डलाकारतो वस्तुन्दशाक्षौहिणिमादिशत्
शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिने ऽवदत्
दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति
तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम्
स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः
स ध्वनन्ध्वजिनीयुक्तो ललितासैन्य मावृणोत्
दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः
देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः
समवर्तत संग्रामो धूलिग्रामतताम्बरः