महामहो महादंष्ट्रो दुर्गतिः स्वर्गमेजयः
दुःशठो दुर्विनीतश्च छिन्नकर्णश्च मूषकः
कुम्भोत्कचः कुम्भनासः कुम्भग्रीवो घटोदरः
पूतिदन्तः पूतिचक्षुः पूत्यास्यः पूतिमेहनः
हिरण्याक्ष समाश्चैव मम पुत्रा महाबलाः
सेनान्यो मे मदोदुवृत्ता मम पुत्रैरनुद्रुताः
भस्मशेषा भवेयुस्तै हा हन्त किमुताबला
महामायाविनोदाश्च कुप्युस्ते भस्मसाद्बलम्
इत्यक्त्वा भण्डदैत्येन्द्रः समुत्थाय नृपासनात्
उत्तिष्ठ रे बलं सर्वं संनाहय समन्ततः
दुर्गाणि संगृहाण त्वं कुरुक्षेपणिकाशतम्
सज्जीकुरु त्वं शस्त्राणि युद्धमेतदुपस्थितम्
अनेकबलसंघातसहितं घोरदर्शनम्
केशेष्वाकृष्य तां मूढां देवसत्त्वे न दर्पिताम्
कुटिलाक्षं महासत्त्वं स्वयं चान्तः पुरं ययौ
अश्रूयन्त च दैत्येन्द्रैरतिकर्णज्वरावहाः
उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः
बधिरीकृतलोकेन चकम्पे जगतां त्रयी
पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः
विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी
समनह्यन्त संक्रुद्धाः प्रति तां परमेश्वरीम्
चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः
अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम्
आरूढतुरगो वीथ्यां चारिभेदं चकार ह
उत्पात वातसंपातप्रेरितानिव पर्वतान्
द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि
अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः
दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः
कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः
एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः