पक्वकर्करिकापेषमवपेक्ष्यति वैरिणः
वज्रदन्तो वज्रमुखो वज्रलोमा बलाहकः
करालाक्षः कर्कटको मदनो दीर्घजिह्वकः
पुल्कसः पुण्ड३केतुश्च चण्डबाहुश्च कुक्कुरः
चतुर्गुप्तश्चतुर्बाहुश्चकाराक्षश्चतुःशिराः
मखशत्रुर्मखास्कन्दी सिंहघोषः शिरालकः
गुहाक्षो गण्डगल्लश्च चण्डधर्मो यमान्तकः
स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः
पुरुषेणो विषेणश्च कुन्तिषेणः परूषकः
कोल्लाटः कुजिलाश्वश्च दासेरो बभ्रुवाहनः
महामहो महादंष्ट्रो दुर्गतिः स्वर्गमेजयः
दुःशठो दुर्विनीतश्च छिन्नकर्णश्च मूषकः
कुम्भोत्कचः कुम्भनासः कुम्भग्रीवो घटोदरः
पूतिदन्तः पूतिचक्षुः पूत्यास्यः पूतिमेहनः
हिरण्याक्ष समाश्चैव मम पुत्रा महाबलाः
सेनान्यो मे मदोदुवृत्ता मम पुत्रैरनुद्रुताः
भस्मशेषा भवेयुस्तै हा हन्त किमुताबला
महामायाविनोदाश्च कुप्युस्ते भस्मसाद्बलम्
इत्यक्त्वा भण्डदैत्येन्द्रः समुत्थाय नृपासनात्
उत्तिष्ठ रे बलं सर्वं संनाहय समन्ततः
दुर्गाणि संगृहाण त्वं कुरुक्षेपणिकाशतम्
सज्जीकुरु त्वं शस्त्राणि युद्धमेतदुपस्थितम्
अनेकबलसंघातसहितं घोरदर्शनम्
केशेष्वाकृष्य तां मूढां देवसत्त्वे न दर्पिताम्
कुटिलाक्षं महासत्त्वं स्वयं चान्तः पुरं ययौ
अश्रूयन्त च दैत्येन्द्रैरतिकर्णज्वरावहाः
उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः
बधिरीकृतलोकेन चकम्पे जगतां त्रयी
पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः
विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी