भूतेन सर्वभूतानां हिरण्यकशिपुर्हतः
निशुम्भशुंभौ महिषं व्यापादितवती रणे
अतो वदामिनावज्ञा स्त्रीमात्रे क्रियतां क्वचित्
शक्तेराधारतां प्रप्तैः स्त्रीपुंलिङ्गैर्न नो भयम्
तर्हि तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया
किंबला किंसहाया वा देव तत्प्रविचार्यताम्
अस्मद्बले महासत्त्वा अक्षौहिण्यधिपाः शतम्
अरे पापसमाचार किंवृथा शङ्कसे स्त्रियः
अग्रे समुदिता काचिल्ललितानामधारिणी
न स्त्त्वं न च वीर्यं वा न संग्रामेषु वा गतिः
तत्सत्त्वेनाविद्यमानं स्त्रीकदम्बकमात्मनः
अथ वा भव दुक्तेन न्यायेनास्तु महद्बलम्
त्रैलोक्योल्लङ्घिमहिमा भण्डः केन विजीयते
श्वसितुं चापि पटवो न कदाचन नाकिनः
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषुभूभृताम्
भ्रष्टाधिकाराः पशवश्छन्नवेषाश्चरन्ति ते
अबला न चिरोत्पन्ना तेनैषा दर्पमश्नुते
विनाशमनुधावन्ति कार्याकार्यविमोहिताः
यथा महोरगाः सिद्धाः साध्या वा युद्धदुर्मदाः
अन्ये वा हरितां नाथास्तान्संपेष्टुमहं पटुः
पक्वकर्करिकापेषमवपेक्ष्यति वैरिणः
वज्रदन्तो वज्रमुखो वज्रलोमा बलाहकः
करालाक्षः कर्कटको मदनो दीर्घजिह्वकः
पुल्कसः पुण्ड३केतुश्च चण्डबाहुश्च कुक्कुरः
चतुर्गुप्तश्चतुर्बाहुश्चकाराक्षश्चतुःशिराः
मखशत्रुर्मखास्कन्दी सिंहघोषः शिरालकः
गुहाक्षो गण्डगल्लश्च चण्डधर्मो यमान्तकः
स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः
पुरुषेणो विषेणश्च कुन्तिषेणः परूषकः
कोल्लाटः कुजिलाश्वश्च दासेरो बभ्रुवाहनः