छन्दजास्तु त्रयस्त्रिंशत्सर्गे स्वायंभुवस्य ह
विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः
असमश्चोग्रदृष्टिश्च सुनयो ऽथ शुचिश्रवाः
तुरीय इद्रयुक्चैव युक्तो ग्रावजितस्तु वै
जरो विभुर्विभावश्च स ऋचीको ऽथ दुर्दिहः
आसन्स्वायंभुवस्यैते चान्तरे सोमपायिनः
तेषामिन्द्रस्तद्दा ह्यासीत्प्रथमे विश्वभुक्त प्रभुः
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः
स्वायंभुवेन्तरे ऽतीताः प्रजास्तासां महस्रशः
विस्तरादिह नोच्यन्ते माप्रसंगो भवेदिह
अतीतो वर्तमानेन दृष्टो वैवस्वते न सः
तेषां सर्पर्षयः पूर्वमासन्ये तान्निबोधत
अत्रिश्चैव वसिष्ठस्च सप्त स्वायंभुवे ऽतरे
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सत्त्र एव च
वायुवेगा महासत्त्वा राजानः प्रथमेंऽतरे
सपिशाचमनुष्यञ्च ससुपर्णाप्सरोगणम्
बहुत्वान्नामधेयानां संख्या तेषां कुतः कुले
कालेन महतातीता अयनाब्दयुगक्रमैः
कस्य योनिः किमादिश्च किं सतत्त्वः किमात्मकः
किं नामधेयं को ऽस्यात्मा एप्तत्त्वं ब्रूहि तत्त्वतः
सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते
संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः
पञ्चधा प्रविभक्तां तु कालावस्थां निबोधत
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः
पञ्चमो वत्सरस्तेषां कालःस युगसज्ञितः
क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
शुक्लकृष्णगतिश्चापि अपां सारमयः खगः
यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः
अहङ्कारादुदग्रुद्रः संभूतो ब्रह्मणास्तु यः
सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत