अबलानां समूहस्छेद्बलिनो ऽस्मान्विजेष्यते
ऊह्यमानमिदं हन्तुं परिहासाय कल्प्यते
अस्मत्सैनिकनासीरभटेभ्यो ऽपि भवेद्भयम्
ब्रह्मादयश्च निर्विण्णविग्रहा मद्बलायुधैः
अन्येषामिह का वार्ता दिक्पालास्ते पलायिताः
सर्वत्र विद्धवर्माणो दुर्मदा विबुधाः कृताः
अस्माकंविजयायाद्य स्त्री काचिदभिधावति
अल्पो ऽपि रिपुरात्मज्ञैर्नावमान्यो जिगीषुभिः
सकचग्रहमाकृष्य सानेतव्या मदोद्धता
चिरेण चेटिकाभावं सा दुष्टा संश्रयिष्यति
शङ्कते खलु वित्रस्तं त्रैलोक्यं सचराचरम्
निवेद्य भण्डदैत्यस्य क्रोधं तस्य व्यवीवृधत्
इदमाह महादैत्यमग्रजन्मानमुद्धतम्
न तु ते क्वापि वक्तव्यं नीतिवर्त्मनि वर्तते
अविचारेण चेत्कर्म समूलमवकृन्तति
तेषां बलाबलं ज्ञेयं जयसंसिद्धिमिच्छता
अशङ्किताकारवांश्च गुप्तमन्त्रः स्वमन्त्रिषु
विजयं लभते राजा जाल्मो मक्षु विनश्यति
विमृश्य तु कृतं कर्म विशेषाज्जयदायकम्
नावज्ञा वैरिणां कार्या शक्तेः सर्वत्र सम्भवः
भूतेन सर्वभूतानां हिरण्यकशिपुर्हतः
निशुम्भशुंभौ महिषं व्यापादितवती रणे
अतो वदामिनावज्ञा स्त्रीमात्रे क्रियतां क्वचित्
शक्तेराधारतां प्रप्तैः स्त्रीपुंलिङ्गैर्न नो भयम्
तर्हि तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया
किंबला किंसहाया वा देव तत्प्रविचार्यताम्
अस्मद्बले महासत्त्वा अक्षौहिण्यधिपाः शतम्
अरे पापसमाचार किंवृथा शङ्कसे स्त्रियः
अग्रे समुदिता काचिल्ललितानामधारिणी
न स्त्त्वं न च वीर्यं वा न संग्रामेषु वा गतिः