धूर्णमाना पतन्ति स्म महोल्का गगनस्थलात्
मही जज्वाल सकला तत्र शून्यकपत्तने
ध्वजाग्रवर्तिनः कङ्कगृध्राश्चैव बकाः खगाः
क्रव्यादा बहवस्तत्र लोचनैर्नावलोकिताः
सर्वतो दिक्षुदृश्यन्ते केतवस्तु मलीमसाः
दैत्यस्त्रीणां च विभ्रष्टा अकाले भूषणस्रजः
दपणानां वर्मणां च ध्वजानां खड्गसंपदाम्
सौधेषु चन्द्रशालासु केलिवेश्मसु सर्वतः
चतुष्किकास्वलिङ्गेषु प्रग्रीवेषु वलेषु च
स्वस्तिकेषु च सर्वेषु गर्भागारपुटेषु च
वातायनेषु कक्ष्यासु धिष्ण्येषु च खलेषु च
अश्रूयन्त महाघोषाः परुषा भूतभाषिताः
आराविषु करोटीनां कोटयश्चापतन्भुवि
केशौघकाश्च निष्पेतुः सर्वतो धूमधूसराः
निवेदयामासुरमी भण्डाय प्रथितौजसे
असंजातधृतिभ्रंशो मन्त्र स्थानमुपागमत्
अध्यासामास दैत्येन्द्रः सिंहासनमनुत्तमम्
दीपयन्नखिलाशान्तानद्युतद्दानवेश्वरः
तुङ्गसिंहासनस्थं तं सिषेवाते तदानुजै
त्रैलोक्यकण्टकीभूतभुजदण्डभयङ्करौ
त्रैलोक्यविजये लब्धं वर्धयन्तौ महद्यशः
कृतां जरिप्रणामौ च समुपाविशता भुवि
सर्वे सामन्तदैत्येन्द्रास्तं द्रष्टुं समुपागताः
स्वंस्वं नाम समुच्चार्य प्रणेमुर्भण्डकेश्वरम्
संभावयन्समालोकैः कियन्तं चित्क्षणं स्थितः
मथ्यमानमहासिंधुसमानार्गलनिस्वनः
पापिनः पामराचारा दुरात्मानः सुराधमाः
ज्वलज्ज्वालाकुले वह्नौ पतित्वा नाशमागताः
स्वयमेव किलास्राक्षुस्तां देवा वासवादयः
बहुस्त्रीपरिवाराश्च विविधायुधमण्डिताः