भीमरूपो हाटकेशस्तथैवाचलनामवान्
तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि
जृंभिण्याद्यचलेन्द्रान्ताः प्रोक्तास्त्रैलोक्यपावनाः
दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः
किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह
यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः
शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम्
चचाल वसुधा सर्वा तच्चक्ररवदारिता
षट्सारथय उद्दण्डपाशग्रहणकोविदाः
इति देवी प्रथमतस्तथा त्रिपुरभैरवी
सारसः पञ्चमश्चैव चामुण्डा च तथा परा
गेयच क्ररथेन्द्रस्य सारथिस्तु हसंतिका
दशयोजनमुन्नम्रो ललितारथपुङ्गवः
षड्योजनसमुन्नम्रो किरिचक्ररथो मुने
वर्तते ललितेशान्या रथ एव न चान्यतः
सामान्यमातपत्रं तु तथद्वन्द्वेपि वर्तते
महासाम्राज्यपदवीमारूढा परमेश्वरी
शब्दायन्ते दिशः सर्वाः कंपते च वसुंधरा
देवदुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः
तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती
मुहुर्जयजयेत्येवं स्तुवाना ललितेश्वरीम्
सप्तर्षयो वशिष्ठाद्या ऋग्यजुः सामरूपिभिः
हविषेव महावह्निशिखामत्यन्तपाविनीम्
तैः स्तूयमाना ललिता राजमाना रथोत्तमे
भण्डासुरं विनिर्जेतुमुद्दण्डैः सह सैनिकैः
महान्तं क्षोभमायाता भण्डासुरपुरालयाः
महेन्द्रपर्वतोपान्ते महार्णवतटे पुरम्
विषङ्गाग्रजदैत्यस्य सदावासः किलाभवत्
वित्रेसुर सुराः सर्वे श्रीदेव्यागमसंभ्रमात्
धूमैरिवावृतमभूदुत्पातजनितैर्मुहुः