तस्यैव पर्वणो ऽधस्ताद्दण्डनाथासमत्विषः
शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः
ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनीद्रुहाम्
निजभक्तद्रोहकृता मन्त्रमालाविभूषणाः
अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि क्रजः
सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम्
सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः
वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः
क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः
हसन्मारुतवाहस्य हरिणस्य पराक्रमम्
किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि
माणिक्यगिरिवच्छोणं हस्ते पिशितपिण्डकम्
मदशक्त्या समाश्लिष्टा धृतरक्तसरोजया
युद्धस्वेद मनुप्राप्ताः शक्तयः स्युः पिपासिताः
रणे खेदं देवतानामञ्जसापाकरिष्यति
तदा श्रोष्यसि संग्रामे कथ्यमानं मया मुदा
उपर्यपि कृतावासा हेतुकाद्या दश स्मृताः
उद्दीप्तायुत तेजोभिर्द्दिवा दीपितभानवः
अत्युदग्रप्रकृतयो रददष्टौष्ठसंपुटाः
हेतुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः
भीमरूपो हाटकेशस्तथैवाचलनामवान्
तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि
जृंभिण्याद्यचलेन्द्रान्ताः प्रोक्तास्त्रैलोक्यपावनाः
दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः
किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह
यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः
शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम्
चचाल वसुधा सर्वा तच्चक्ररवदारिता
षट्सारथय उद्दण्डपाशग्रहणकोविदाः
इति देवी प्रथमतस्तथा त्रिपुरभैरवी