प्रभूतोष्मलनिश्वासप्रसराकंपितांबुधिः
वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः
इन्द्रादयो ऽनेकभेदा दिशामष्टकदेवताः
इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः
विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः
क्रन्दञ्चिरक्षसां नाथा राक्षसा बहवस्तथा
विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः
विद्याधराः किन्नराश्च मारुतेश्वर एव च
तुंबुरुर्नारदो यक्षः सोमोयक्षेश्वरस्तथा
ईशानश्च जगच्चक्रभक्षकः शूलभीषणः
धन्वन्तरिश्च भगवानथान्ये गणनायकाः
अनन्तो वासुकिस्तक्षः कर्केटः पद्म एव च
एते नागेश्वराश्चैव नागकोटिभिरावृताः
पूर्वादिदिशमारभ्य परितः कृतमन्दिराः
आश्रित्य किल वर्तन्ते तदधिष्ठातृदेवताः
तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः
पातालतलजंबालबहुला कारकालिमा
भिन्दन्डमरुकध्वानै रोदसीकन्दरोदरम्
क्षेत्रपालः सदा भाति सेवमानः किटीश्वरीम्
यमा रुह्य प्रववृते भण्टासुरबधैषिणी
तस्यैव पर्वणो ऽधस्ताद्दण्डनाथासमत्विषः
शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः
ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनीद्रुहाम्
निजभक्तद्रोहकृता मन्त्रमालाविभूषणाः
अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि क्रजः
सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम्
सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः
वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः
क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः
हसन्मारुतवाहस्य हरिणस्य पराक्रमम्