शकटा कारदन्ताश्च भयङ्करविलोचनाः
वैदिकद्रोहणादेव द्रोहिणां वीरवैरिणाम्
नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम्
क्रोधिनी स्तंभिनी ख्याते वर्तेते देवते उभे
देवद्विषां चमूरक्तहालापानमहोद्धते
अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च
हलं च मुसलं चैव देवतारूपमास्थितम्
आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम्
खण्डयिष्यति संग्रामं विषङ्गं नामदानहम्
वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः
चण्डोच्चण्ड इति ख्यातश्चतुर्हस्तस्त्रिलोचनः
सदा संसेवते देवीं पश्यन्नेव हि पोत्रिणीम्
वार्त्ताल्याद्या अष्ट देव्यो दिक्ष्वष्टासूपविश्रुताः
अष्टनागस्फुरद्भूषा अनष्टबलतेजसः
सेवन्ते ललितां देव्यो दण्डनाथामहर्निशम्
वार्ताली चैव वाराहीसा वाराहमुखी परा
स्तंभिनीति रिपुक्षोभस्तंभनोच्चाटनक्षमाः
दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः
खड्गवन्निष्ठुरैर्लोमजातैः संवृतविग्रहः
नीलाञ्जनाचलप्रख्यो विकटोन्नतरुष्टभूः
प्रभूतोष्मलनिश्वासप्रसराकंपितांबुधिः
वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः
इन्द्रादयो ऽनेकभेदा दिशामष्टकदेवताः
इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः
विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः
क्रन्दञ्चिरक्षसां नाथा राक्षसा बहवस्तथा
विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः
विद्याधराः किन्नराश्च मारुतेश्वर एव च
तुंबुरुर्नारदो यक्षः सोमोयक्षेश्वरस्तथा
ईशानश्च जगच्चक्रभक्षकः शूलभीषणः