सा तत्र जगदुद्दण्डकण्टकव्रातघस्मरी
नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जयश्रियम्
दंष्ट्राबालमृगाङ्कांशुविभावनविभावरी
पोत्रिणी पुत्रिताशेषविश्वावर्तकदंबिका
उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः
ज्वलन्माणिक्यवलयैर्बि भ्राणाः पाणिपल्लवैः
दहन्त्य इव निःशङ्कं सेवन्ते सूकराननाम्
अन्धिन्याद्याः पञ्च देव्यो देवीयन्त्रकृतास्पदाः
ज्वाला इव तु कल्पग्नेरङ्गनावेषमाश्रिताः
लिलिक्षमाणा जिह्वाभिर्लेलिहानाभिरुज्ज्वलाः
किरिचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः
षडेव देव्यः षट्चक्रज्वलज्ज्वालाकलेवराः
आज्ञया दण्डनाथायास्तं प्रदेशमुपासते
यक्षिणी शङ्खिनी चैव लाकिनी हाकिनी तथा
हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः
त्वचं रक्तं तथा मांसं मेदो ऽस्थि च विरोधिनाम्
निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश
मोहने मारणे चैव स्तंभने ताडने तथा
पण्डिताः खण्डिताशेषविपदो भक्तिशालिषु
सप्तापि वारिधीनूर्मिमालासंचुंबितांबरान्
शकटा कारदन्ताश्च भयङ्करविलोचनाः
वैदिकद्रोहणादेव द्रोहिणां वीरवैरिणाम्
नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम्
क्रोधिनी स्तंभिनी ख्याते वर्तेते देवते उभे
देवद्विषां चमूरक्तहालापानमहोद्धते
अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च
हलं च मुसलं चैव देवतारूपमास्थितम्
आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम्
खण्डयिष्यति संग्रामं विषङ्गं नामदानहम्
वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः