मनोभवः पञ्चमः स्यादेते त्रैलोक्यमोहनाः
कवचच्छन्नसर्वाङ्गाः पलाशप्रसवत्विषः
जेयचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः
तत्र पर्वण्यधस्ताच्च लक्ष्मीश्चैव सरस्वती
एताश्चक्रोधरक्ताक्ष्यो दैत्यं हन्तुं महाबलम्
पञ्चमं पर्व संप्राप्ता वामाद्याः षोडशापराः
वामा ज्येष्टा च रौद्री च शान्तिः श्रद्धा सरस्वती
तथा प्रमाथिनी चाश्वसिनी वीचिस्तथैव च
एतास्तु कुरविन्दाभा जगत्क्षोभणलंपटाः
वज्रदण्डौ शतघ्नीं च संबिभ्राणा भुशुण्डिकाः
असिताङ्गप्रभृतयो भैरवाः शस्त्रभीषणाः
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः
अथ गीतिरथेन्द्रस्य सप्तमं पर्व संश्रिताः
महती सिद्धलक्ष्मीश्च शोणा बाणधनुर्धराः
दुर्गांबा बटुकश्चेंव सर्वे ते शस्त्रपाणयः
शङ्खः पद्मो निधिश्चैव ते सर्वे शस्त्रपाणयः
शक्रादयश्च विष्म्वन्ता दश दिक्चक्रनायकाः
वज्रे शक्तिं कालदण्डमकिं पाशं ध्वजं तथा
सेवन्ते मन्त्रिनाथां तां नित्यं भक्तिसमन्विताः
मन्त्रिनाथाश्रयद्वारा ललिताज्ञापनोत्सुकाः
सर्वेषां चैव देवानां मन्त्रिणी द्वारतः कृता
राक्षी विज्ञापना चेति प्रधानद्वारतः कृता
अन्यथा कथमेतेषां सामर्थ्यं ज्वलितौजसः
सा हि संगीतविद्येति श्रीदेव्या अतिवल्लभा
श्रीदेव्याःशक्तिसाम्राज्ये सर्वकर्माणि मन्त्रिणी
तस्याः प्रधानभूतायाः सेवामेव वितन्वते
पर्वस्थितानां देवीनां नामानि कथितान्यलम्
प्रोक्तानि गेयचक्रस्य पर्वदेव्याश्च कीर्तिताः
सर्वपापविनिर्मुक्तास्ते स्युर्विजयिनो नराः
देवताश्च शृणु प्राज्ञ नाम यच्छृण्वतां जयः