धर्म्मयुक्ते च ते कार्ये एकस्मिंस्तु दुरासदे
तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः
इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात्
ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा
स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह
समस्तेनेह यज्ञेन सो ऽयजद्दैवतैः सह
मेनायां तामुमां देवीं जनयामास शैलराट्
सदा पत्नी भवस्यैषा न तया मुच्यते भवः
यथा नारायणं श्रीश्च मघवतं शची यथा
नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कदाचन
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेंऽतरे
जज्ञे तदाभिशापेन द्वितीय इति नः श्रुतम्
आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य च
इत्येषो ऽनुशयो ह्यासीत्तयोर्जात्यन्तरानुगः
तस्मान्नानुशयः कार्यो वैरेष्विह कदाचन
ख्यातिं न मुञ्चते जन्तुस्तन्न कार्यं विपश्चिता
या दक्षमधिकृत्येह त्वया पूर्वं प्रचौदिता
पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम्
देवायामा इति ख्याताः पूर्वं ये यज्ञसूनवः
पुत्राः स्वायंभुवस्यैते शक्ता नाम तु मानसाः
छन्दजास्तु त्रयस्त्रिंशत्सर्गे स्वायंभुवस्य ह
विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः
असमश्चोग्रदृष्टिश्च सुनयो ऽथ शुचिश्रवाः
तुरीय इद्रयुक्चैव युक्तो ग्रावजितस्तु वै
जरो विभुर्विभावश्च स ऋचीको ऽथ दुर्दिहः
आसन्स्वायंभुवस्यैते चान्तरे सोमपायिनः
तेषामिन्द्रस्तद्दा ह्यासीत्प्रथमे विश्वभुक्त प्रभुः
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः
स्वायंभुवेन्तरे ऽतीताः प्रजास्तासां महस्रशः
विस्तरादिह नोच्यन्ते माप्रसंगो भवेदिह