एतासामपि नामानि समाकर्मय कुम्भज
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी
चक्रे तुरीयपर्वस्था मुक्ताहारसमत्विषः
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा
सर्वाधारस्वरूपा च सर्वपापहरा तथा
दशमी देवताज्ञेया सर्वेष्सितफलप्रदा
चक्रं चैवाभिबिभ्राणा भण्डासुरवधोद्यताः
रहस्ययोगिनीनाम्ना प्रख्याता वागधीश्वराः
कवचच्छन्नसर्वाङ्गयो वीणापुस्तकशोभिताः
अरुणाच जविन्याख्या सर्वेशी कौलिनी तथा
अथ चक्ररथेन्द्रस्य द्वितीयं पर्वसंश्रिताः
तिस्रस्त्रिपीठनिलया अष्टबाहुसमन्विताः
विभ्राणा मदिरामत्ता अतिगुप्तरहस्यकाः
तिस्र एताः स्मृता देव्यो भण्डे कोपसमन्विताः
एतास्तु नित्यं श्रीदेव्या अन्तरङ्गाः प्रकीर्तिताः
परितो रचितावासाः प्रोक्ताः पञ्चदशाक्षराः
भण्डासुरादिदैत्येषु प्रक्षुब्धभ्रुकुटीतटाः
जगतामुपकाराय वर्तमाना युगेयुगे
कामेशी भगमाला च नित्यक्लिन्ना तथैव च
दती च त्वरिता देवी नवमी कुलसुन्दरी
ज्वालामालिनिकाचित्रे दश पञ्च च कीर्तिताः
दुष्टं भण्डासुरं जेतुं निर्ययौ परमेश्वरी
सप्तपर्वाणि चोक्तानि तत्र देव्याश्च ताः शृणु
संगीतयोगिनी प्रोक्ता श्रीदेव्या अतिवल्लभा
अथ द्वितीयपर्वस्था गेयचक्रे रथोत्तमे
तमालश्यामलाकारा दानवोन्मूलनक्षमाः
द्राविणी शोषिणी चैव बन्धिनी मोहिनी तथा
तत्र पर्वण्यधस्तात्तु वर्तमाना महौजसः