भण्डासुरमभिक्रुद्धाः प्रज्वलन्त्य इव स्थिताः
सर्वसंक्षोभिणीमुख्याः सम्प्रदायाख्यया युताः
अतितीव्रस्वभावाश्च कालानलसमत्विषः
वह्निचक्राख्याफलकं दधाना दीप्तविग्रहाः
आज्ञाशक्तय एवैता ललिताया महौजसः
सर्वाकर्षणिका शक्तिः सर्वाह्लादिनिका तथा
सर्वजृंभणशक्तिश्च सर्वोन्मादनशक्तिका
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी
अथ पञ्चमपर्वस्थाः कुलोत्तीर्णा इति स्मृताः
गदां घण्टां मणिं चैव दधाना दीप्तविग्रहाः
एतासामपि नामानि समाकर्मय कुम्भज
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी
चक्रे तुरीयपर्वस्था मुक्ताहारसमत्विषः
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा
सर्वाधारस्वरूपा च सर्वपापहरा तथा
दशमी देवताज्ञेया सर्वेष्सितफलप्रदा
चक्रं चैवाभिबिभ्राणा भण्डासुरवधोद्यताः
रहस्ययोगिनीनाम्ना प्रख्याता वागधीश्वराः
कवचच्छन्नसर्वाङ्गयो वीणापुस्तकशोभिताः
अरुणाच जविन्याख्या सर्वेशी कौलिनी तथा
अथ चक्ररथेन्द्रस्य द्वितीयं पर्वसंश्रिताः
तिस्रस्त्रिपीठनिलया अष्टबाहुसमन्विताः
विभ्राणा मदिरामत्ता अतिगुप्तरहस्यकाः
तिस्र एताः स्मृता देव्यो भण्डे कोपसमन्विताः
एतास्तु नित्यं श्रीदेव्या अन्तरङ्गाः प्रकीर्तिताः
परितो रचितावासाः प्रोक्ताः पञ्चदशाक्षराः
भण्डासुरादिदैत्येषु प्रक्षुब्धभ्रुकुटीतटाः
जगतामुपकाराय वर्तमाना युगेयुगे