महाविद्या शिवानङ्गवल्लभा सर्वपाटला
शृङ्गारनायिका चेति पञ्चविंशतिनामभिः
ते प्राप्नुवन्ति सौभाग्यमष्टौ सिद्धीर्महद्यशः
भण्डासुरं प्रति क्रुद्धा चचाल ललितांबिका
देवता प्रकटाभिख्यास्तासामाख्यां निवेदय
आयुधानि च दिव्यानि कथयस्व हयानन
तश प्रोक्ता सिद्धिदेव्यस्तासां नामानि मच्छृणु
ईशिता वशिता चैव प्राप्तिः सिद्धिश्च सप्तमी
एतादेव्यश्चतुर्बाह्व्यो जपाकुसुमसंनिभाः
दधाना दयया पूर्णा योगिभिश्च निषेविताः
वाराही चैव मांहेन्द्री चामुण्डा चैव सप्तमी
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः
ब्रह्मादिसदृशाकारा ब्रह्मादिसदृशायुधाः
तासामूर्ध्वस्थानगतां मुद्रा देव्यो महत्तराः
दाडिमीपुष्पसङ्काशाः पीतांबरमनोहराः
मदरक्तविलोलाक्ष्यस्तासां नामानि मच्छृणु
सर्वाकर्षणकृन्मुद्रा तथा सर्ववशङ्करी
सर्वखेचरिका मुद्रा सर्वबीजा तथापरा
सिद्धिब्राहयादिमुद्रास्ता एताः प्रकटशक्तयः
या गुप्ताख्याः पूर्वमुक्तास्तासां नामानि मच्छृणु
अहङ्काराकर्षिणी च शब्दाकर्षणिका कला
रसाकर्षणिका नित्या गन्धाकर्षणिका कला
स्मृत्या कर्षणिका नित्या नामाकर्णणिका कला
अमृताकर्षणी नित्या शरीराकर्षिणी कला
अष्टमं पर्व सम्प्राप्ता गुप्ता नाम्ना प्रकीर्तिताः
चतुर्भुजास्त्रिनेत्राश्च चन्द्रार्कमुकुजोज्ज्वलाः
भण्डासुरवधार्थाय प्रवृत्ताः कुम्भसम्भव
सप्तमे पर्वणि कृतावासा गुप्ततराभिधाः
अनङ्गलेखा चानङ्गवेगानङ्गाङ्कुशापि च
इक्षुचापं पुष्पशरान्पुष्पकन्दुकमुत्पलम्