शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा
निर्जगाम धनुर्वेदो वहन्सज्जंशरासनम्
नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान्
अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके
गृहाण जगतामंब दानवानां निबर्हणम्
गृहाण दैत्यनाशाय ममानुग्रहहेतवे
अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया
विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः
नाकालयानां च मनोन यनानन्दसंपदा
शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः
धारयन्ती घनश्यामा चकारातिमनोहरम्
कदंबिनीव रुरुचे कदम्बच्छत्रकार्मुका
उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः
तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः
आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः
कलनिक्वणद्वलयमैक्ष्वं धनुर्दधती प्रदीप्तकुसुमेषुपञ्चका
किरती दिशासु वदनस्य कान्तिभिः सृजतीव चन्द्रमयमभ्रमण्डलम्
धवलातपत्रवलयेन भासुरा शशिमण्डलस्य सखितामुपेयुषा
नवचन्द्रिकालहरिकान्तिकन्दलीचतुरेण चामरचतुष्टयेन च
संगीतवाद्यरचनाभिरथामरीणां संस्तूयमानविभवा विशदप्रकाशा
वाचामगोचरमगोचरमेव बुद्धेरीदृक्तया न कलनीयमनन्यतुल्यम्
आबद्धभक्तिविपुलाञ्जलिशेखराणामारादहंप्रथमिका कृतसेवनानाम्
उद्दीप्तपुष्पशरपञ्चकतः समुत्थैज्योतिर्मयं त्रिभुवनं सहसा दधाना
कामेश्वरीप्रभृतिभिः कमनीयभाभिः संग्रामवेषरचनासुमनोहराभिः
श्रीचक्रनामतिलकं दशयोजनातितुङ्गध्वजोल्लिखितमेघकदंबमुच्चैः
प्रोद्यत्पिशङ्गरुचिभागमलांशुकेन वीतामनोहररुचिस्समरे व्यभासीत्
संस्तूयमाना ललिता मरुद्भिः संग्राममुद्दिश्य समुच्चचाल
ललितापरमेशान्या देहि कर्णरसायनम्
चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी
चक्रेश्वरी महादेवी कामेशी परमेश्वरी