तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः
अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात्
वज्रघोष इति ख्यातं धूतकेसरमण्डलम्
दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम्
विबन्तमिव भूचक्रमापातालं निमज्जिभिः
सिंहवाहनमारुह्य व्यचलद्दण्डनायिका
उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम्
किं वा मुसलघातेन भूमिं द्वेधा करिष्यति
इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः
मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले
अश्वानन महाप्राज्ञ येषु मे कौतुकं महत्
पञ्चमी दण्डनाथा च संकेता समयेश्वरी
वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा
संकटे दुःखमाप्नोति न कदाचन मानवः
तेषामनुग्रहार्थाय प्रचचालच सा पुनः
निर्याणसूचनकरी दिवि दध्वान काहली
वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम्
वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः
मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः
सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः
मन्त्रनाथां पुरस्कृत्य संप्रचेलुः पुरः पुरः
बालार्कवर्णकवचा मदालोलविलोचना
प्रेक्षयन्ती कटाक्षौधौः किञ्चिद्भ्रूवल्लिताण्डवैः
पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा
निर्जगाम घनश्यामश्यामला मन्त्रनायिका
तानि षोडशनामानि शृणु कुंभसमुद्भव
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया
निपप्रिया कदंबेशी कदंबवनवासिनी
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम्
तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम्