तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमाः
अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः
व्यचरत्खुरकुद्दालविदारितमहीतलम्
टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे
वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः
विनीताः साधुवोढारो वेगिनः स्थिरचेतसः
लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः
पञ्चधारासु शक्षढ्या विनीताश्च प्लवान्विताः
देवपद्मं देवमणिं देवस्वस्तिकमेव च
वहन्तो वातजवना वाजिनस्तां समन्वयुः
अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम्
स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम्
वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः
घोषमाणं प्रति मुहुः संदर्शितगतिक्रमम्
भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम्
अश्वारूढा महादेवी समारूढा हयं ययौ
हयवल्गां च दधती बहुविक्रमशोभिनी
सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम्
उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत्
अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः
खड्गं फलकमादाय पुप्लुवुश्चण्डसक्तयः
निवारयन्त्यो वेत्रिण्यो व्युच्छलन्ति स्मशक्तयः
सिहाङ्काश्चैव बिभ्राणाः शक्तयो व्यचलन्पुरा
स्फुरत्कराः प्रचलिताः शक्तयः काश्चिदाददुः
छत्रैर्गगनमारेजे निःसंख्याशशिमण्डितम्
तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा
तालवृन्ताः शतविधाः क्रोडमुख्या बले ऽचलन्
ज्वलत्केशापिशङ्गाभास्तडिद्भासुरदिङ्मुखाः
प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः
तत्समानायुधकरास्तत्समानस्ववाहनाः