सेलुकाझल्लरीराङ्घाहुहुकाहुण्डुकाघटाः
यवमध्या मुष्टिमध्या मर्द्दलाडिण्डिमा अपि
उद्धकाश्चैतुहुण्डाश्च निःसाणा बर्बराः परे
दध्वनुः शक्तिसेनाभिराहताः समरोद्यमे
संपत्करी नाम देवी चचाल सह शक्तिभिः
सेविता तरुणादित्यपाटला संपदीश्वरी
रणकोलाहलं नाम सारुरोह मतङ्गजम्
लोलाभिः केतुमालाभिरुल्लिखन्ती धनाधनात्
कण्टको घनसंनाहो रुरुचे वक्षसिस्थितः
कुटिला कालनाथस्य भृकुटीव भयङ्करा
तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमाः
अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः
व्यचरत्खुरकुद्दालविदारितमहीतलम्
टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे
वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः
विनीताः साधुवोढारो वेगिनः स्थिरचेतसः
लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः
पञ्चधारासु शक्षढ्या विनीताश्च प्लवान्विताः
देवपद्मं देवमणिं देवस्वस्तिकमेव च
वहन्तो वातजवना वाजिनस्तां समन्वयुः
अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम्
स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम्
वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः
घोषमाणं प्रति मुहुः संदर्शितगतिक्रमम्
भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम्
अश्वारूढा महादेवी समारूढा हयं ययौ
हयवल्गां च दधती बहुविक्रमशोभिनी
सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम्
उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत्
अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः