तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ
अवरुह्य विमानग्रात्प्रविवेश महासभाम्
सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत्
कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च
महार्हाणि च वस्तूनि दिव्यान्याभरणानि च
प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते
सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम्
अन्ये दिशामधीशास्तु सकला देवतागणाः
महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः
दिवि भूम्यन्तरिक्षेषु ससंबाधं वसंति ये
ते सर्वे चाप्यसंबाधं निवसंति स्म तत्पुरे
तोषयामास सततमनुरागेण भूयसा
राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम्
दशवर्षसहस्राणि ययुः क्षण इवापरः
प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः
मदसद्भावसंकल्पविकल्पकलनात्मिका
प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि
त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः
त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु
स्वस्ववासनिवासाय प्रेषयामास चामरान्
यथार्हं पूजयित्वा तु प्रेषयामास चांबिका
स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत
आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम्
जपेद्धनसमृद्धः स्यात्सुधासंमितवाग्भवेत्
यशः प्राप्नोति विपुलं समानोत्तमतामपि
कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत्
त्रिसंध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम्
षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः
त्रैलोक्यकण्टकं भण्डं दैत्यं जेतुं विनिर्ययौ
प्रभूतमर्द्दलध्वानैः पूरयामासुरंबरम्