नाशयामास शापाय मानसो ब्रह्मणः सुतः
मरुत्प्रवाहे मरुतो दित्यां देव्यां च संभवः
देवत्वमिन्द्रवासेन वायुस्कन्धेषु चाश्रमः
सर्वभूतपिशाचानां यक्षणां पक्षिवीरुधाम्
मार्तण्डमण्डलं कृत्स्नं जन्मैरावतहस्तिनः
भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि
पराशरस्य च मुनेः प्रजानां यत्र विस्तरः
इच्छाया विस्तरश्चोक्त आदित्यस्य ततः परम्
बृहद्बलानां संक्षेपादिक्ष्वाक्वाद्याः प्रकीर्त्तिताः
कीर्त्यते विस्तरात्सर्गे ययातेरपि भूपतेः
क्रोधादनन्तरं चोक्तस्तथा वंशस्य विस्तरः
देवावृधस्यान्धकस्य धृष्टेश्चपि महात्मनः
विशोधमनुसंप्राप्तिर्मणिरत्नस्य धीमतः
शूरस्य जन्म चाप्युक्तं चरितं च माहात्मनः
वासुदेवस्य देव क्यां विष्णोरमिततेजसः
देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते
भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम्
नारसिहप्रभृतयः कीर्त्यन्ते पापनाशनाः
वरप्रदान कृत्तेन यत्र शर्वस्तवः कृतः
जयन्त्या सह शक्रेण यत्र शुको महात्मनि
बृहस्पतिश्च तं शुकं शशाप स महाद्युतिः
तुर्वसुश्चात्र दौहित्रो यवीयान्यो यदोरभूत्
अनुवंश्यामहात्मानस्तेषां पार्थिवसत्तमाः
आतिथ्यस्य तु विब्रर्षेः सप्तधा धर्मसंश्रयात्
हरवंशयशःस्पर्शः शन्तनोर्वीर्यशब्दनम्
अनागतानांसंघानां प्रभूणां चोपवर्णनम्
नैमित्तिकाः प्राकृतिका यथैवात्यन्तिकाः स्मृताः
अनादृष्टिर्भास्करस्य घोरः संवर्त्तकानलः
भुवादीनां च लोकानां सप्तानां चोपवर्णनम्
ब्रह्मणोयोजनाग्रेण परिमाणविनिर्णयः