ममानुरूपचरितो भविता तु मम प्रियः
उवाच च महादेवीं धर्मार्थसहितं वचः
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम्
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः
त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम्
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे
पपात कण्ठदेशे हि तदा कामेश्वरस्य तु
ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः
कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे
त्वद्रूपा हि महादेवी सहजश्च भवानपि
तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः
देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम्
उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः
तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम्
अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशांपतिः
नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम्
चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा
गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे
स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः
ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान्
अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम्
दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत्
तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम्
चामख्याजनच्छत्रध्वजयष्टिमनोहरम्
सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात्
प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः