चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरम्
इति निश्चित्य तेनैव सहितास्तामथाययुः
अभवन्मन्मथाविष्टो विस्मृत्य सकलाः क्रियाः
अन्योन्यालोकनासक्तौ तावृभौ मदनातुरौ
परैरज्ञातचारित्रौ मुहूर्तास्वस्थचेतनौ
त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे
लोकसंरक्षणार्थाय भजस्व पुरुषं परम्
अभिषिक्तां महाभागैर्देवार्षे भिरकल्मषैः
सप्रियामासनगतां द्रष्टुमिच्छामहे वयम्
उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान्
ममानुरूपचरितो भविता तु मम प्रियः
उवाच च महादेवीं धर्मार्थसहितं वचः
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम्
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः
त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम्
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे
पपात कण्ठदेशे हि तदा कामेश्वरस्य तु
ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः
कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे
त्वद्रूपा हि महादेवी सहजश्च भवानपि
तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः
देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम्
उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः
तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम्
अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशांपतिः
नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम्